७.३५.१८

यदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।
समाधाय मतिं राम निशामय वदाम्यहम् ॥

M N Dutt

But if you are, O Raghava, greatly anxious to hear it, I shall relate do you hear with a quiescent mind.

पदच्छेदः

यदियदि (अव्ययः)
वास्तिवा (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
त्वभिप्रायस्तच्छ्रोतुंतु (अव्ययः)–अभिप्राय (१.१)–तद् (२.१)–श्रोतुम् (√श्रु + तुमुन्)
तवत्वद् (६.१)
राघवराघव (८.१)
समाधायसमाधाय (√समा-धा + ल्यप्)
मतिंमति (२.१)
रामराम (८.१)
निशामयनिशामय (√नि-शामय् लोट् म.पु. )
वदाम्यहम्वदामि (√वद् लट् उ.पु. )–मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि वा स्तित्व भि प्रा
स्त च्छ्रो तुं रा
मा धा तिं रा
नि शा दाम्य हम्