७.३५.१९

सूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।
यत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥

M N Dutt

Hanuman's father Keśarī reigned in the mountain Sumeru which resembles gold by the influence of the sun.

पदच्छेदः

सूर्यदत्तवरस्वर्णःसूर्य–दत्त (√दा + क्त)–वर–स्वर्ण (१.१)
सुमेरुर्सुमेरु (१.१)
नामनाम (अव्ययः)
पर्वतःपर्वत (१.१)
यत्रयत्र (अव्ययः)
राज्यंराज्य (२.१)
प्रशास्त्यस्यप्रशास्ति (√प्र-शास् लट् प्र.पु. एक.)–इदम् (६.१)
केसरीकेसरिन् (१.१)
नामनाम (अव्ययः)
वैवै (अव्ययः)
पितापितृ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सूर्यत्त स्व र्णः
सु मे रु र्नार्व तः
त्र रा ज्यंप्र शा स्त्यस्य
के री ना वैपि ता