७.३५.२६

नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा ।
यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥

M N Dutt

The velocity, with which Marut's son is going, is not possessed even by the Wind, Garuda and mind.

पदच्छेदः

नाप्येवं (अव्ययः)–अपि (अव्ययः)–एवम् (अव्ययः)
वेगवान्वेगवत् (१.१)
वायुर्वायु (१.१)
गरुडोगरुड (१.१)
(अव्ययः)
मनस्तथामनस् (१.१)–तथा (अव्ययः)
यथायंयथा (अव्ययः)–इदम् (१.१)
वायुपुत्रस्तुवायुपुत्र (१.१)–तु (अव्ययः)
क्रमतेक्रमते (√क्रम् लट् प्र.पु. एक.)
ऽम्बरम्अम्बर (२.१)
उत्तमम्उत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना प्ये वं वे वा न्वायु
र्गरु डोस्त था
था यं वायु पु त्रस्तु
क्र तेऽम्ब मुत्त मम्