७.३५.२७

यदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ ।
यौवनं बलमासाद्य कथं वेगो भविष्यति ॥

M N Dutt

If he has got such vehemence in his boyhood what great strength he shall have in his youth.

पदच्छेदः

यदियदि (अव्ययः)
तावच्छिशोर्तावत् (अव्ययः)–शिशु (६.१)
अस्यइदम् (६.१)
ईदृशौईदृश (१.२)
गतिविक्रमौगति–विक्रम (१.२)
यौवनंयौवन (२.१)
बलम्बल (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
कथंकथम् (अव्ययः)
वेगोवेग (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि ताच्छि शोस्य
दृ शौति विक्र मौ
यौ नं मा साद्य
थं वे गो विष्यति