७.३५.२८

तमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।
सूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥

M N Dutt

His own son thus leaping, the wind, becoming cool by the touch of snow, began to follow him proceeding in the sky lest the rays of the sun might scorch him.

पदच्छेदः

तम्तद् (२.१)
अनुप्लवतेअनुप्लवते (√अनु-प्लु लट् प्र.पु. एक.)
वायुःवायु (१.१)
प्लवन्तंप्लवत् (√प्लु + शतृ, २.१)
पुत्रम्पुत्र (२.१)
आत्मनःआत्मन् (६.१)
सूर्यदाहभयाद्सूर्य–दाह–भय (५.१)
रक्षंस्तुषारचयशीतलःरक्षत् (√रक्ष् + शतृ, १.१)–तुषार–चय–शीतल (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नुप्ल ते वा युः
प्ल न्तं पुत्र मात्म नः
सूर्य दा या द्र क्षं
स्तु षा शी लः