७.३५.३४

बुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।
किमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥

M N Dutt

O Vasava! O slayer of Bala and Vrtra-to remove my hunger you did give me both the sun and moon; why you have then given them to another?

पदच्छेदः

बुभुक्षापनयंबुभुक्षा–अपनय (२.१)
दत्त्वादत्त्वा (√दा + क्त्वा)
चन्द्रार्कौचन्द्र–अर्क (१.२)
मममद् (६.१)
वासववासव (८.१)
किम् (१.१)
इदंइदम् (१.१)
तत्तद् (१.१)
त्वयात्वद् (३.१)
दत्तम्दत्त (√दा + क्त, १.१)
अन्यस्यअन्य (६.१)
बलवृत्रहन्बल–वृत्र–हन् (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बु भु क्षा यं त्त्वा
न्द्रा र्कौ वा
किमि दंत्त्व यात्त
न्यस्य वृत्र हन्