७.३५.३६

स राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।
उत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् ॥

पदच्छेदः

तद् (१.१)
राहोर्राहु (६.१)
वचनंवचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
वासवःवासव (१.१)
संभ्रमान्वितःसम्भ्रम–अन्वित (१.१)
उत्पपातासनंउत्पपात (√उत्-पत् लिट् प्र.पु. एक.)–आसन (२.१)
हित्वाहित्वा (√हा + क्त्वा)
उद्वहन्उद्वहत् (√उत्-वह् + शतृ, १.१)
काञ्चनस्रजम्काञ्चन–स्रज् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा होर्व नं श्रु त्वा
वा वः संभ्र मान्वि तः
त्प पा ता नं हि त्वा
द्व न्काञ्चस्र जम्