७.३५.३७

ततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।
शृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥

पदच्छेदः

ततःततस् (अव्ययः)
कैलासकूटाभंकैलास–कूट–आभ (२.१)
चतुर्दन्तंचतुर्दन्त (२.१)
मदस्रवम्मद–स्रव (२.१)
शृङ्गारकारिणंशृङ्गार–कारिन् (२.१)
प्रांशुंप्रांशु (२.१)
स्वर्णघण्टाट्टहासिनम्स्वर्ण–घण्टा–अट्टहासिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः कै ला कू टा भं
तु र्द न्तंस्र वम्
शृ ङ्गा कारि णं प्रां शुं
स्वर्ण ण्टाट्ट हासि नम्