७.३५.३८

इन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।
प्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥

पदच्छेदः

इन्द्रःइन्द्र (१.१)
करीन्द्रम्करीन्द्र (२.१)
आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
राहुंराहु (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
पुरःसरम्पुरःसर (२.१)
प्रायाद्प्रायात् (√प्र-या लङ् प्र.पु. एक.)
यत्राभवत्यत्र (अव्ययः)–अभवत् (√भू लङ् प्र.पु. एक.)
सूर्यःसूर्य (१.१)
सहानेनसह (अव्ययः)–इदम् (३.१)
हनूमताहनुमन्त् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्द्रः रीन्द्र मा रुह्य
रा हुं कृ त्वापु रः रम्
प्रा या द्य त्रा त्सू र्यः
हा ने नू ता