७.३५.४३

राहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः ।
श्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम् ॥

M N Dutt

Understanding everything by the piteous accents of Rāhu Indra said, “No fear, I shall soon slay him.”

पदच्छेदः

राहोर्राहु (६.१)
विक्रोशमानस्यविक्रोशमान (√वि-क्रुश् + शानच्, ६.१)
प्राग्प्राक् (अव्ययः)
एवालक्षितःएव (अव्ययः)–अलक्षित (१.१)
स्वरःस्वर (१.१)
श्रुत्वेन्द्रोवाचश्रुत्वा (√श्रु + क्त्वा)–इन्द्र (१.१)–उवाच (√वच् लिट् प्र.पु. एक.)
मामा (अव्ययः)
भैषीर्भैषीः (√भी म.पु. )
अयम्इदम् (१.१)
एनंएनद् (२.१)
निहन्म्यहम्निहन्मि (√नि-हन् लट् उ.पु. )–मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा हो र्वि क्रो मास्य
प्रा गे वाक्षि तःस्व रः
श्रु त्वे न्द्रो वा मा भै षी
मे नंनिन्म्य हम्