७.३५.४५

तदास्य धावतो रूपमैरावतजिघृक्षया ।
मुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥

M N Dutt

Proceeding thus tempestuously when he rose above the head of Indra, Hanuman, looked in a moment dreadful like the fire of dissolution.

पदच्छेदः

तदास्यतदा (अव्ययः)–इदम् (६.१)
धावतोधावत् (√धाव् + शतृ, ६.१)
रूपम्रूप (१.१)
ऐरावतजिघृक्षयाऐरावत–जिघृक्षा (३.१)
मुहूर्तम्मुहूर्त (२.१)
अभवद्अभवत् (√भू लङ् प्र.पु. एक.)
घोरम्घोर (१.१)
इन्द्राग्न्योर्इन्द्र–अग्नि (६.२)
इवइव (अव्ययः)
भास्वरम्भास्वर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दास्य धा तो रू
मै राजि घृक्ष या
मु हूर्त द्घो
मि न्द्रा ग्न्योरि भास्व रम्