७.३५.६४

ततः प्रजाभिः सहितः प्रजापतिः; सदेवगन्धर्वभुजंगगुह्यकः ।
जगाम तत्रास्यति यत्र मारुतः; सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥

M N Dutt

Thereupon the Patriarch Brahmā, the celestials, Gandharvas, serpents, Guhyakas and other created beings went where the wind was waiting with his own son belaboured by the king of the celestials.

पदच्छेदः

ततःततस् (अव्ययः)
प्रजाभिःप्रजा (३.३)
सहितःसहित (१.१)
प्रजापतिःप्रजापति (१.१)
सदेवगन्धर्वभुजंगगुह्यकः (अव्ययः)–देव–गन्धर्व–भुजंग–गुह्यक (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
तत्रास्यतितत्र (अव्ययः)–अस्यति (√अस् लट् प्र.पु. एक.)
यत्रयत्र (अव्ययः)
मारुतःमारुत (१.१)
सुतंसुत (२.१)
सुरेन्द्राभिहतंसुर–इन्द्र–अभिहत (√अभि-हन् + क्त, २.१)
प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
सःतद् (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
तःप्र जा भिःहि तःप्र जा तिः
दे न्धर्वभु जं गुह्य कः
गा त्रास्यतित्र मारु तः
सु तंसु रे न्द्राभि तंप्र गृह्य सः