७.३६.१०

ततः सहस्रनयनः प्रीतिरक्तः शुभाननः ।
कुशे शयमयीं मालां समुत्क्षिप्येदमब्रवीत् ॥

M N Dutt

Thereupon the thousand eyed, charming Indra setting aside the garland of lotus flowers spoke thus.

पदच्छेदः

ततःततस् (अव्ययः)
सहस्रनयनःसहस्रनयन (१.१)
प्रीतिरक्तःप्रीति–रक्त (√रञ्ज् + क्त, १.१)
शुभाननःशुभ–आनन (१.१)
कुशेशयमयींकुशेशय–मय (२.१)
मालांमाला (२.१)
समुत्क्षिप्येदम्समुत्क्षिप्य (√समुत्-क्षिप् + ल्यप्)–इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तःस्र नः
प्रीति क्तःशु भा नः
कु शे यीं मा लां
मु त्क्षि प्येब्र वीत्