७.३६.१३

मार्ताण्डस्त्वब्रवीत्तत्र भगवांस्तिमिरापहः ।
तेजसोऽस्य मदीयस्य ददामि शतिकां कलाम् ॥

M N Dutt

The god Mārtanda, the dispeller of darkness, on that occasion told that I will bestow upon him the hundredth part of my brilliance,

पदच्छेदः

मार्ताण्डस्त्वब्रवीत्मार्ताण्ड (१.१)–तु (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तत्रतत्र (अव्ययः)
भगवांस्तिमिरापहःभगवत् (१.१)–तिमिर–अपह (१.१)
तेजसोतेजस् (६.१)
ऽस्यइदम् (६.१)
मदीयस्यमदीय (६.१)
ददामिददामि (√दा लट् उ.पु. )
शतिकांशतिक (२.१)
कलाम्कला (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा र्ता ण्ड स्त्वब्र वी त्तत्र
वांस्तिमि रा हः
ते सोऽस्य दीस्य
दामिति कां लाम्