७.३६.१९

सर्वेषां ब्रह्मदण्डानामवध्योऽयं भविष्यति ।
दीर्घायुश्च महात्मा च इति ब्रह्माब्रवीद्वचः ॥

पदच्छेदः

सर्वेषांसर्व (६.३)
ब्रह्मदण्डानाम्ब्रह्मदण्ड (६.३)
अवध्योअवध्य (१.१)
ऽयंइदम् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
दीर्घायुश्चदीर्घ–आयुस् (१.१)–च (अव्ययः)
महात्मामहात्मन् (१.१)
(अव्ययः)
इतिइति (अव्ययः)
ब्रह्माब्रवीद्ब्रह्मन् (१.१)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वे षां ब्रह्म ण्डा ना
ध्यो ऽयं विष्यति
दी र्घा युश्च हा त्मा
ति ब्र ह्माब्र वीद्व चः