७.३६.२१

विनिर्मितानि देवानामायुधानीह यानि तु ।
तेषां संग्रामकाले तु अवध्योऽयं भविष्यति ॥

पदच्छेदः

विनिर्मितानिविनिर्मित (√विनिर्-मा + क्त, १.३)
देवानाम्देव (६.३)
आयुधानीहआयुध (१.३)–इह (अव्ययः)
यानियद् (१.३)
तुतु (अव्ययः)
तेषांतद् (६.३)
संग्रामकालेसंग्राम–काल (७.१)
तुतु (अव्ययः)
अवध्योअवध्य (१.१)
ऽयंइदम् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि निर्मि तानि दे वा ना
मायु धा नी यानितु
ते षां सं ग्रा का लेतु
ध्यो ऽयं विष्यति