७.३६.३

तं तु वेदविदाद्यस्तु लम्बाभरणशोभिना ।
वायुमुत्थाप्य हस्तेन शिशुं तं परिमृष्टवान् ॥

M N Dutt

The knower of the Vedas lifted up the Vāyu with his outstretched and adorned hands and embraced the child.

पदच्छेदः

तंतद् (२.१)
तुतु (अव्ययः)
वेदविदाद्यस्तुवेद–विद्–आद्य (१.१)–तु (अव्ययः)
लम्बाभरणशोभिनालम्ब–आभरण–शोभिन् (३.१)
वायुम्वायु (२.१)
उत्थाप्यउत्थाप्य (√उत्-स्थापय् + ल्यप्)
हस्तेनहस्त (३.१)
शिशुंशिशु (२.१)
तंतद् (२.१)
परिमृष्टवान्परिमृष्टवत् (√परि-मृज् + क्तवतु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंतु वेवि दा द्यस्तु
म्बा शोभि ना
वायु मु त्थाप्य स्ते
शि शुं तंरि मृष्ट वान्