७.३६.३३

बाधसे यत्समाश्रित्य बलमस्मान्प्लवंगम ।
तद्दीर्घकालं वेत्तासि नास्माकं शापमोहितः ॥

पदच्छेदः

बाधसेबाधसे (√बाध् लट् म.पु. )
यत्यत् (अव्ययः)
समाश्रित्यसमाश्रित्य (√समा-श्रि + ल्यप्)
बलम्बल (२.१)
अस्मान्मद् (२.३)
प्लवंगमप्लवंगम (८.१)
तद्तद् (२.१)
दीर्घकालंदीर्घ–काल (२.१)
वेत्तासिवेत्तासि (√विद् लुट् म.पु. )
नास्माकं (अव्ययः)–मद् (६.३)
शापमोहितःशाप–मोहित (√मोहय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बा सेत्स मा श्रित्य
स्मान्प्ल वं
द्दीर्घ का लं वे त्तासि
ना स्मा कं शा मोहि तः