७.३८.३

ऊचुश्चैव महीपाला बलदर्पसमन्विताः ।
न नाम रावणं युद्धे पश्यामः पुरतः स्थितम् ॥

पदच्छेदः

ऊचुश्चैवऊचुः (√वच् लिट् प्र.पु. बहु.)–च (अव्ययः)–एव (अव्ययः)
महीपालामहीपाल (१.३)
बलदर्पसमन्विताःबल–दर्प–समन्वित (१.३)
(अव्ययः)
नामनाम (अव्ययः)
रावणंरावण (२.१)
युद्धेयुद्ध (७.१)
पश्यामःपश्यामः (√दृश् लट् उ.पु. द्वि.)
पुरतःपुरतस् (अव्ययः)
स्थितम्स्थित (√स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चु श्चै ही पा ला
र्पन्वि ताः
ना रा णं यु द्धे
श्या मःपु तःस्थि तम्