७.३८.५

रामस्य बाहुवीर्येण पालिता लक्ष्मणस्य च ।
सुखं पारे समुद्रस्य युध्येम विगतज्वराः ॥

M N Dutt

We would have, on the other side of the Ocean, well protected by the prowess of Rāma and Lakşmaņa, and freed from all disturbances, fought at pleasure.

पदच्छेदः

रामस्यराम (६.१)
बाहुवीर्येणबाहु–वीर्य (३.१)
पालितापालित (√पालय् + क्त, १.३)
लक्ष्मणस्यलक्ष्मण (६.१)
(अव्ययः)
सुखंसुखम् (अव्ययः)
पारेपार (७.१)
समुद्रस्यसमुद्र (६.१)
युध्येमयुध्येम (√युध् विधिलिङ् उ.पु. द्वि.)
विगतज्वराःविगत (√वि-गम् + क्त)–ज्वर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्य बाहु वी र्ये
पालि ताक्ष्मस्य
सु खं पा रे मु द्रस्य
यु ध्येविज्व राः