७.३९.१

तथा स्म तेषां वसतामृक्षवानररक्षसाम् ।
राघवस्तु महातेजाः सुग्रीवमिदमब्रवीत् ॥

M N Dutt

In this wise, the monkeys, bears and Rākşasas spent their days in Ayodhyä. Thereupon the highly effulgent Rāma, the descendant of Raghu said to Sugrīva.

पदच्छेदः

तथातथा (अव्ययः)
स्मस्म (अव्ययः)
तेषांतद् (६.३)
वसताम्वसत् (√वस् + शतृ, ६.३)
ऋक्षवानररक्षसाम्ऋक्ष–वानर–रक्षस् (६.३)
राघवस्तुराघव (१.१)–तु (अव्ययः)
महातेजाःमहत्–तेजस् (१.१)
सुग्रीवम्सुग्रीव (२.१)
इदम्इदम् (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थास्म ते षां ता
मृक्ष वाक्ष साम्
रास्तु हा ते जाः
सु ग्रीमिब्र वीत्