७.३९.१९

चरिष्यति कथा यावल्लोकानेषा हि मामिका ।
तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः ॥

पदच्छेदः

चरिष्यतिचरिष्यति (√चर् लृट् प्र.पु. एक.)
कथाकथा (१.१)
यावल्लोकान्यावत् (अव्ययः)–लोक (२.३)
एषाएतद् (१.१)
हिहि (अव्ययः)
मामिकामामक (१.१)
तावच्छरीरेतावत् (अव्ययः)–शरीर (७.१)
वत्स्यन्तिवत्स्यन्ति (√वस् लृट् प्र.पु. बहु.)
प्राणास्तवप्राण (१.३)–त्वद् (६.१)
(अव्ययः)
संशयःसंशय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रिष्यति था या
ल्लो का ने षाहि मामि का
ताच्छ री रे त्स्यन्ति
प्रा णास्त सं यः