७.३९.२१

तेनोरसि निबद्धेन हारेण स महाकपिः ।
रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥

M N Dutt

Like to the mountain Sumeru beautified by the rising of the moon on its summit, Hanumān, the foremost of monkeys, appeared graceful with the chain placed on his breast.

पदच्छेदः

तेनोरसितद् (३.१)–उरस् (७.१)
निबद्धेननिबद्ध (√नि-बन्ध् + क्त, ३.१)
हारेणहार (३.१)
तद् (१.१)
महाकपिःमहत्–कपि (१.१)
रराजरराज (√राज् लिट् प्र.पु. एक.)
हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकःहेमन्–शैल–इन्द्र (१.१)–चन्द्र (३.१)–आक्रान्त (√आ-क्रम् + क्त)–मस्तक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते नोसिनि द्धे
हा रे हा पिः
रा हे शै लेन्द्र
श्च न्द्रे णा क्रान्तस्त कः