७.३९.२३

सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः ।
विभीषणश्च धर्मात्मा निरन्तरमुरोगतः ॥

पदच्छेदः

सुग्रीवश्चैवसुग्रीव (१.१)–च (अव्ययः)–एव (अव्ययः)
रामेणराम (३.१)
परिष्वक्तोपरिष्वक्त (√परि-स्वज् + क्त, १.१)
महाभुजःमहत्–भुज (१.१)
विभीषणश्चविभीषण (१.१)–च (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
निरन्तरम्निरन्तरम् (अव्ययः)
उरोगतःउरस्–गत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सु ग्री श्चै रा मे
रि ष्व क्तो हाभु जः
वि भीश्च र्मा त्मा
निन्तमु रो तः