७.४.१३

रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः ।
यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः ॥

M N Dutt

Those among you who have said 'Raksama,' shall be Raksasas; and those among you, who have said 'Yaksama' shall be Yaksas.

पदच्छेदः

रक्षामरक्षामः (√रक्ष् लट् उ.पु. द्वि.)
इतिइति (अव्ययः)
यैर्यद् (३.३)
उक्तंउक्त (√वच् + क्त, १.१)
राक्षसास्तेराक्षस (१.३)–तद् (१.३)
भवन्तुभवन्तु (√भू लोट् प्र.पु. बहु.)
वःत्वद् (६.३)
यक्षामयक्षाम (√यज् उ.पु. द्वि.)
इतिइति (अव्ययः)
यैर्यद् (३.३)
उक्तंउक्त (√वच् + क्त, १.१)
तेतद् (१.३)
वैवै (अव्ययः)
यक्षायक्ष (१.३)
भवन्तुभवन्तु (√भू लोट् प्र.पु. बहु.)
वःत्वद् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्षाति यै रु क्तं
राक्ष सा स्तेन्तु वः
क्षाति यै रु क्तं
ते वै क्षान्तु वः