७.४.१४

तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ ।
मधुकैटभसंकाशौ बभूवतुररिंदमौ ॥

M N Dutt

And there sprang the brothers-repressors of foes-Heti and Praheti lords of Raksasas, resembling Madhu Kaitabha himself.

पदच्छेदः

तत्रतत्र (अव्ययः)
हेतिःहेति (१.१)
प्रहेतिश्चप्रहेति (१.१)–च (अव्ययः)
भ्रातरौभ्रातृ (१.२)
राक्षसर्षभौराक्षस–ऋषभ (१.२)
मधुकैटभसंकाशौमधु–कैटभ–संकाश (१.२)
बभूवतुर्बभूवतुः (√भू लिट् प्र.पु. द्वि.)
अरिंदमौअरिंदम (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्र हे तिःप्र हे तिश्च
भ्रा रौ राक्षर्ष भौ
धु कै सं का शौ
भूतु रिं मौ