७.४.२५

तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी ।
रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् ॥

पदच्छेदः

तम्तद् (२.१)
उत्सृज्यउत्सृज्य (√उत्-सृज् + ल्यप्)
तुतु (अव्ययः)
सातद् (१.१)
गर्भंगर्भ (२.१)
विद्युत्केशाद्विद्युत्केशिन् (५.१)
रतार्थिनीरत–अर्थिन् (१.१)
रेमेरेमे (√रम् लिट् प्र.पु. एक.)
सातद् (१.१)
पतिनापति (३.१)
सार्धंसार्धम् (अव्ययः)
विस्मृत्यविस्मृत्य (√वि-स्मृ + ल्यप्)
सुतम्सुत (२.१)
आत्मजम्आत्मज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु त्सृज्यतु सा र्भं
वि द्यु त्के शाद्र तार्थि नी
रे मे साति ना सा र्धं
वि स्मृत्यसु मात्म जम्