७.४.२७

अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः ।
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ॥

पदच्छेदः

अथोपरिष्टाद्अथ (अव्ययः)–उपरिष्टात् (अव्ययः)
गच्छन्गच्छत् (√गम् + शतृ, १.१)
वैवै (अव्ययः)
वृषभस्थोवृषभ–स्थ (१.१)
हरःहर (१.१)
प्रभुःप्रभु (१.१)
अपश्यद्अपश्यत् (√पश् लङ् प्र.पु. एक.)
उमयाउमा (३.१)
सार्धंसार्धम् (अव्ययः)
रुदन्तंरुदत् (√रुद् + शतृ, २.१)
राक्षसात्मजम्राक्षस–आत्मज (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थो रि ष्टा द्ग च्छ न्वै
वृ स्थो रःप्र भुः
श्यदु या सा र्धं
रु न्तं राक्ष सात्म जम्