७.४.२८

कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः ।
तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ॥

पदच्छेदः

कारुण्यभावात्कारुण्य–भाव (५.१)
पार्वत्यापार्वती (६.१)
भवस्त्रिपुरहाभव (१.१)–त्रिपुर–हन् (१.१)
ततःततस् (अव्ययः)
तंतद् (२.१)
राक्षसात्मजंराक्षस–आत्मजा (२.१)
चक्रेचक्रे (√कृ लिट् प्र.पु. एक.)
मातुर्मातृ (६.१)
एवएव (अव्ययः)
वयःसमम्वयस्–सम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का रुण्य भा वा त्पा र्व त्या
स्त्रिपु हा तः
तं राक्ष सात्म जं क्रे
मातु रे यः मम्