७.४.२९

अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः ।
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ॥

पदच्छेदः

अमरंअमर (२.१)
चैव (अव्ययः)–एव (अव्ययः)
तंतद् (२.१)
कृत्वाकृत्वा (√कृ + क्त्वा)
महादेवोमहादेव (१.१)
ऽक्षयोअक्षय (१.१)
ऽव्ययःअव्यय (१.१)
पुरम्पुर (२.१)
आकाशगंआकाश–ग (२.१)
प्रादात्प्रादात् (√प्र-दा प्र.पु. एक.)
पार्वत्याःपार्वती (६.१)
प्रियकाम्ययाप्रिय–काम्या (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रं चै तं कृ त्वा
हा दे वोऽक्ष योऽव्य यः
पु मा का गं प्रा दा
त्पा र्व त्याःप्रि काम्य या