७.४.३०

उमयापि वरो दत्तो राक्षसीनां नृपात्मज ।
सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।
सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् ॥

M N Dutt

O son of the king, Umă also bestowed a boon: “Henceforth the Rāksasis shall conceive in a day, bring forth (child) in a day, and the child shall in a day be furnished with the age of its mother.'

पदच्छेदः

उमयापिउमा (३.१)–अपि (अव्ययः)
वरोवर (१.१)
दत्तोदत्त (√दा + क्त, १.१)
राक्षसीनांराक्षसी (६.३)
नृपात्मजनृप–आत्मज (८.१)
सद्यसद्यस् (अव्ययः)
उपलब्धिर्उपलब्धि (१.१)
गर्भस्यगर्भ (६.१)
प्रसूतिःप्रसूति (१.१)
सद्यसद्यस् (अव्ययः)
एवएव (अव्ययः)
(अव्ययः)
सद्यसद्यस् (अव्ययः)
एवएव (अव्ययः)
वयःप्राप्तिर्वयस्–प्राप्ति (१.१)
मातुर्मातृ (६.१)
एवएव (अव्ययः)
वयःसमम्वयस्–सम (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
यापि रो त्तो राक्ष सी नां
नृ पात्म द्यो ब्धि र्ग र्भस्य
प्र सू तिःद्यद्य
यः प्रा प्ति र्मातु रे यः मम्