७.४.३

भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।
इतीदं भवतः श्रुत्वा विस्मयो जनितो मम ॥

M N Dutt

O worshipful one, hearing your words that formerly Lankā had been in the possession of the flesh-eaters, I have been seized with great amazement.

पदच्छेदः

भगवन्भगवत् (८.१)
पूर्वम्पूर्वम् (अव्ययः)
अप्येषाअपि (अव्ययः)–एतद् (१.१)
लङ्कासीत्लङ्का (१.१)–आसीत् (√अस् लङ् प्र.पु. एक.)
पिशिताशिनाम्पिशिताशिन् (६.३)
इतीदंइति (अव्ययः)–इदम् (२.१)
भवतःभवत् (६.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
विस्मयोविस्मय (१.१)
जनितोजनित (√जनय् + क्त, १.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्पूर्व प्ये षा
ङ्का सीत्पिशि ताशि नाम्
ती दं तः श्रु त्वा
विस्म योनि तो