७.४०.१

विसृज्य च महाबाहुरृक्षवानरराक्षसान् ।
भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् ॥

M N Dutt

Having bade adieu to bears, monkeys and Rākşasas the long-armed Rāma began to live happily in the company of his brothers.

पदच्छेदः

विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
(अव्ययः)
महाबाहुर्महत्–बाहु (१.१)
ऋक्षवानरराक्षसान्ऋक्ष–वानर–राक्षस (२.३)
भ्रातृभिःभ्रातृ (३.३)
सहितोसहित (१.१)
रामःराम (१.१)
प्रमुमोदप्रमुमोद (√प्र-मुद् लिट् प्र.पु. एक.)
सुखीसुखिन् (१.१)
सुखम्सुख (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि सृज्य हा बाहु
रृक्ष वा राक्ष सान्
भ्रातृ भिःहि तो रा मः
प्रमु मोसु खीसु खम्