७.४०.१०

बाढमित्येव काकुत्स्थः पुष्पकं समपूजयत् ।
लाजाक्षतैश्च पुष्पैश्च गन्धैश्च सुसुगन्धिभिः ॥

पदच्छेदः

बाढम्बाढ (१.१)
इत्येवइति (अव्ययः)–एव (अव्ययः)
काकुत्स्थःकाकुत्स्थ (१.१)
पुष्पकंपुष्पक (२.१)
समपूजयत्समपूजयत् (√सम्-पूजय् लङ् प्र.पु. एक.)
लाजाक्षतैश्चलाज–अक्षत (३.३)–च (अव्ययः)
पुष्पैश्चपुष्प (३.३)–च (अव्ययः)
गन्धैश्चगन्ध (३.३)–च (अव्ययः)
सुसुगन्धिभिःसु (अव्ययः)–सु (अव्ययः)–गन्धि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बा मि त्ये का कु त्स्थः
पुष्प कं पू यत्
ला जाक्ष तैश्च पु ष्पैश्च
न्धैश्चसुसुन्धि भिः