७.४०.११

गम्यतां च यथाकाममागच्छेस्त्वं यदा स्मरे ।
एवमस्त्विति रामेण विसृष्टः पुष्पकः पुनः ।
अभिप्रेतां दिशं प्रायात्पुष्पकः पुष्पभूषितः ॥

पदच्छेदः

गम्यतांगम्यताम् (√गम् प्र.पु. एक.)
(अव्ययः)
यथाकामम्यथाकाम (२.१)
आगच्छेस्त्वंआगच्छेः (√आ-गम् विधिलिङ् म.पु. )–त्वद् (१.१)
यदायदा (अव्ययः)
स्मरेस्मरे (√स्मृ लट् उ.पु. )
एवम्एवम् (अव्ययः)
अस्त्वितिअस्तु (√अस् लोट् प्र.पु. एक.)–इति (अव्ययः)
रामेणराम (३.१)
विसृष्टःविसृष्ट (√वि-सृज् + क्त, १.१)
पुष्पकःपुष्पक (१.१)
पुनःपुनर् (अव्ययः)
अभिप्रेतांअभिप्रेत (√अभिप्र-इ + क्त, २.१)
दिशंदिश् (२.१)
प्रायात्प्रायात् (√प्र-या लङ् प्र.पु. एक.)
पुष्पकःपुष्पक (१.१)
पुष्पभूषितःपुष्प–भूषित (√भूषय् + क्त, १.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
म्य तां था का मा च्छे स्त्वं
दास्म रेस्त्विति रा मे
वि सृ ष्टः पुष्प कःपु नः भि प्रे तां
दि शं प्रा या त्पुष्प कः पुष्प भूषि तः