७.४०.१३

अत्यद्भुतानि दृश्यन्ते त्वयि राज्यं प्रशासति ।
अमानुषाणां सत्त्वानां व्याहृतानि मुहुर्मुहुः ॥

पदच्छेदः

अत्यद्भुतानिअति (अव्ययः)–अद्भुत (१.३)
दृश्यन्तेदृश्यन्ते (√दृश् प्र.पु. बहु.)
त्वयित्वद् (७.१)
राज्यंराज्य (२.१)
प्रशासतिप्रशासत् (√प्र-शास् + शतृ, ७.१)
अमानुषाणांअमानुष (६.३)
सत्त्वानांसत्त्व (६.३)
व्याहृतानिव्याहृत (√व्या-हृ + क्त, १.३)
मुहुर्मुहुर् (अव्ययः)
मुहुःमुहुर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यद्भु तानि दृ श्य न्ते
त्वयि रा ज्यंप्र शाति
मानु षा णां त्त्वा नां
व्याहृ तानिमु हुर्मु हुः