७.४१.१६

एवं रामो मुदा युक्तः सीतां सुरुचिराननाम् ।
रमयामास वैदेहीमहन्यहनि देववत् ॥

M N Dutt

Being greatly delighted the celestial-like Rama pleased everyday Sītā resembling a celestial damsel.

पदच्छेदः

एवंएवम् (अव्ययः)
रामोराम (१.१)
मुदामुद् (३.१)
युक्तायुक्त (√युज् + क्त, १.१)
सीतांसीता (२.१)
सुरुचिराननाम्सु (अव्ययः)–रुचिर–आनन (२.१)
रमयामासरमयामास (√रमय् प्र.पु. एक.)
वैदेहीम्वैदेही (२.१)
अहन्यहनिअहर् (७.१)–अहर् (७.१)
देववत्देव–वत् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं रा मोमु दा यु क्तः
सी तांसुरुचि रा नाम्
या मा वै दे ही
न्यनि दे वत्