७.४१.६

शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः ।
नीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ॥

पदच्छेदः

नीलाञ्जननिभाश्चान्येनीलाञ्जन–निभ (१.३)–च (अव्ययः)–अन्य (१.३)
भान्तिभान्ति (√भा लट् प्र.पु. बहु.)
तत्रतत्र (अव्ययः)
स्मस्म (अव्ययः)
पादपाःपादप (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शा कुम्भनि भाः केचि
त्केचिग्निशि खो माः
नी लाञ्जनि भा श्चा न्ये
भान्ति त्रस्म पा पाः