७.४१.७

दीर्घिका विविधाकाराः पूर्णाः परमवारिणा ।
महार्हमणिसोपानस्फटिकान्तरकुट्टिमाः ॥

पदच्छेदः

दीर्घिकादीर्घिका (१.३)
विविधाकाराःविविध–आकार (१.३)
पूर्णाःपूर्ण (√पृ + क्त, १.३)
परमवारिणापरम–वारि (३.१)
महार्हमणिसोपानस्फटिकान्तरकुट्टिमाःमहार्ह–मणि–सोपान–स्फटिक–अन्तर–कुट्टिम (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दीर्घि काविवि धा का राः
पू र्णाः वारि णा
हार्हणि सो पा
स्फटि कान्त कुट्टि माः