७.४१.८

फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ।
प्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥

पदच्छेदः

फुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताःफुल्ल–पद्म–उत्पल–वन (१.३)–चक्रवाक–उपशोभित (√उप-शोभय् + क्त, १.३)
प्राकारैर्प्राकार (३.३)
विविधाकारैःविविध–आकार (३.३)
शोभिताश्चशोभित (√शोभय् + क्त, १.३)–च (अव्ययः)
शिलातलैःशिला–तल (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

फुल्ल द्मोत्प ना
श्चक्र वा को शोभि ताः
प्रा का रैर्विवि धा का रैः
शोभि ताश्चशि ला लैः