७.४२.१४

दुष्करं कृतवान्रामः समुद्रे सेतुबन्धनम् ।
अकृतं पूर्वकैः कैश्चिद्देवैरपि सदानवैः ॥

M N Dutt

Indeed Rāma has accomplished a wonderfully hard work; our ancestors, the celestials, the Dānavas none heard of constructing a bridge over the ocean?

पदच्छेदः

दुष्करंदुष्कर (२.१)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
रामःराम (१.१)
समुद्रेसमुद्र (७.१)
सेतुबन्धनम्सेतु–बन्धन (२.१)
अकृतंअकृत (२.१)
पूर्वकैःपूर्वक (३.३)
कैश्चिद्कश्चित् (३.३)
देवैर्देव (३.३)
अपिअपि (अव्ययः)
सदानवैः (अव्ययः)–दानव (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुष्क रंकृ वा न्रा मः
मु द्रे सेतुन्ध नम्
कृ तं पूर्व कैः कैश्चि
द्दे वैपि दा वैः