७.४२.७

एवमुक्ते तु रामेण भद्रः प्राञ्जलिरब्रवीत् ।
स्थिताः कथाः शुभा राजन्वर्तन्ते पुरवासिनाम् ॥

M N Dutt

Rāma having said this, Bhadra with folded hands replied: "O king, the citizens speak many good things about you; besides they dilate upon many things in their own houses regarding your conquest acquired by the destruction of the Ten-necked demon."

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तेउक्त (√वच् + क्त, ७.१)
तुतु (अव्ययः)
रामेणराम (३.१)
भद्रःभद्र (१.१)
प्राञ्जलिर्प्राञ्जलि (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
स्थिताःस्थित (√स्था + क्त, १.३)
कथाःकथा (१.३)
शुभाशुभ (१.३)
राजन्राजन् (८.१)
वर्तन्तेवर्तन्ते (√वृत् लट् प्र.पु. बहु.)
पुरवासिनाम्पुर–वासिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तेतु रा मे
द्रः प्राञ्जलिब्र वीत्
स्थि ताः थाःशु भा रा
न्व र्त न्तेपु वासि नाम्