७.४२.८

अयं तु विजयः सौम्य दशग्रीववधाश्रितः ।
भूयिष्ठं स्वपुरे पौरैः कथ्यते पुरुषर्षभ ॥

पदच्छेदः

अयंइदम् (१.१)
तुतु (अव्ययः)
विजयःविजय (१.१)
सौम्यसौम्य (८.१)
दशग्रीववधाश्रितःदशग्रीव–वध–आश्रित (√आ-श्रि + क्त, १.१)
भूयिष्ठंभूयिष्ठ (१.१)
स्वपुरेस्व–पुर (७.१)
पौरैःपौर (३.३)
कथ्यतेकथ्यते (√कथय् प्र.पु. एक.)
पुरुषर्षभपुरुष–ऋषभ (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यंतुवि यः सौम्य
ग्री धाश्रि तः
भू यि ष्ठंस्वपु रे पौ रैः
थ्य तेपुरुर्ष