७.४२.९

एवमुक्तस्तु भद्रेण राघवो वाक्यमब्रवीत् ।
कथयस्व यथातथ्यं सर्वं निरवशेषतः ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
भद्रेणभद्र (३.१)
राघवोराघव (१.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
कथयस्वकथयस्व (√कथय् लोट् म.पु. )
यथातथ्यंयथातथ्यम् (अव्ययः)
सर्वंसर्व (२.१)
निरवशेषतःनिरवशेषतः (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु द्रे
रा वो वाक्यब्र वीत्
स्व था थ्यं
र्वंनि शे तः