७.४३.१

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः ।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥

M N Dutt

Having sent away his friends and determined what to do, Rāma, the delight of the Råghus, commanded the warder, who was seated hard by, saying.

पदच्छेदः

विसृज्यविसृज्य (√वि-सृज् + ल्यप्)
तुतु (अव्ययः)
सुहृद्वर्गंसुहृद्–वर्ग (२.१)
बुद्ध्याबुद्धि (३.१)
निश्चित्यनिश्चित्य (√निः-चि + ल्यप्)
राघवःराघव (१.१)
समीपेसमीप (७.१)
द्वाःस्थम्द्वाःस्थ (२.१)
आसीनम्आसीन (√आस् + क्त, २.१)
इदंइदम् (२.१)
वचनम्वचन (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि सृज्यतुसु हृ द्व र्गं
बु द्ध्या नि श्चित्य रा वः
मी पे द्वाःस्थ मा सी
मि दंब्र वीत्