७.४३.१८

भवन्तो मम सर्वस्वं भवन्तो मम जीवितम् ।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥

पदच्छेदः

भवन्तोभवत् (१.३)
मममद् (६.१)
सर्वस्वंसर्व–स्व (१.१)
भवन्तोभवत् (१.३)
मममद् (६.१)
जीवितम्जीवित (१.१)
भवद्भिश्चभवत् (३.३)–च (अव्ययः)
कृतंकृत (√कृ + क्त, २.१)
राज्यंराज्य (२.१)
पालयामिपालयामि (√पालय् लट् उ.पु. )
नरेश्वराःनरेश्वर (८.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्तो र्व स्वं
न्तो जीवि तम्
द्भिश्चकृ तं रा ज्यं
पा यामि रेश्व राः