७.४३.६

प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात् ।
उवाच प्राञ्जलिर्वाक्यं राजा त्वां द्रष्टुमिच्छति ॥

M N Dutt

Having beheld Lakşmana's departure the warder humbly went to Bharata and having blessed him with folded hands said: “The King wishes to see you."

पदच्छेदः

प्रयान्तंप्रयान्त् (√प्र-या + शतृ, २.१)
लक्ष्मणंलक्ष्मण (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
द्वाःस्थोद्वाःस्थ (१.१)
भरतम्भरत (२.१)
अन्तिकात्अन्तिक (५.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
प्राञ्जलिर्प्राञ्जलि (१.१)
वाक्यंवाक्य (२.१)
राजाराजन् (१.१)
त्वांत्वद् (२.१)
द्रष्टुम्द्रष्टुम् (√दृश् + तुमुन्)
इच्छतिइच्छति (√इष् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र या न्तंक्ष्म णं दृ ष्ट्वा
द्वाः स्थोन्ति कात्
वा प्राञ्ज लि र्वा क्यं
रा जा त्वां द्रष्टु मिच्छति