७.४३.७

भरतस्तु वचः श्रुत्वा द्वाःस्थाद्रामसमीरितम् ।
उत्पपातासनात्तूर्णं पद्भ्यामेव ततोऽगमत् ॥

M N Dutt

Hearing of the command of Rāma from the warder, the highly powerful Bharata at once got up from his seat and proceeded on foot.

पदच्छेदः

भरतस्तुभरत (१.१)–तु (अव्ययः)
वचःवचस् (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
द्वाःस्थाद्द्वाःस्थ (५.१)
रामसमीरितम्राम–समीरित (√सम्-ईरय् + क्त, २.१)
उत्पपातासनात्उत्पपात (√उत्-पत् लिट् प्र.पु. एक.)–आसन (५.१)
तूर्णंतूर्णम् (अव्ययः)
पद्भ्याम्पद् (३.२)
एवएव (अव्ययः)
ततोततस् (अव्ययः)
ऽगमत्अगमत् (√गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्तु चः श्रु त्वा
द्वाः स्था द्रा मीरि तम्
त्प पा ता ना त्तू र्णं
द्भ्या मे तोऽग मत्