७.४४.१०

अयं तु मे महान्वादः शोकश्च हृदि वर्तते ।
पौरापवादः सुमहांस्तथा जनपदस्य च ॥

M N Dutt

But now a great sorrow consequent upon the censure of the citizens and villagers has pierced my heart.

पदच्छेदः

अयंइदम् (१.१)
तुतु (अव्ययः)
मेमद् (६.१)
महान्महत् (१.१)
वादःवाद (१.१)
शोकश्चशोक (१.१)–च (अव्ययः)
हृदिहृद् (७.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
पौरापवादःपौर–अपवाद (१.१)
सुमहांस्तथासु (अव्ययः)–महत् (१.१)–तथा (अव्ययः)
जनपदस्यजनपद (६.१)
(अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यंतु मे हा न्वा दः
शोश्चहृदिर्त ते
पौ रा वा दःसु हां
स्त थास्य