७.४४.१५

श्वस्त्वं प्रभाते सौमित्रे सुमन्त्राधिष्ठितं रथम् ।
आरुह्य सीतामारोप्य विषयान्ते समुत्सृज ॥

M N Dutt

Do you, O Laksmana, next morning, ascending the car driven by Sumantra, take away Sītā to another country.

पदच्छेदः

श्वस्त्वंश्वस् (अव्ययः)–त्वद् (१.१)
प्रभातेप्रभात (७.१)
सौमित्रेसौमित्रि (८.१)
सुमन्त्राधिष्ठितंसुमन्त्र–अधिष्ठित (√अधि-स्था + क्त, २.१)
रथम्रथ (२.१)
आरुह्यआरुह्य (√आ-रुह् + ल्यप्)
सीताम्सीता (२.१)
आरोप्यआरोप्य (√आ-रोपय् + ल्यप्)
विषयान्तेविषय–अन्त (७.१)
समुत्सृजसमुत्सृज (√समुत्-सृज् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्व स्त्वंप्र भा ते सौ मि त्रे
सु न्त्रा धिष्ठि तं थम्
रुह्य सी ता मा रोप्य
वि या न्ते मुत्सृ